________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२८॥
॥१९॥
( २९ ) न कश्चिदायाति निजेन सार्द्ध रोषश्च रागश्च निवार्यतां तत् सत्याऽऽत्मतत्वं प्रविचार्य मन्ये संसारमध्ये त्वयमास्ति सारः॥ स्वपापपुण्यक्रियया भवोऽन्यः सार्द्ध समागच्छति जन्मकाले पुण्योदये जायत एव सौख्यं पापोदये जायत एव दुःखम् ॥ पुण्योदयेनाऽऽलभते मनुष्यो धर्मस्य सर्वोपकरं मनोज्ञम् पापोदयेनाऽऽलभते मनुष्यो दुःखस्य सर्वोपकरं दुरन्तम् ॥ स्यात्पुण्यतो देवमनुष्ययोनिः पापेन लभ्यं नरकादिदुःखम् न पापकर्म क्रियतां यतस्ते पुण्येन धर्मेण च सौख्यमिष्टम् ॥ आशांस्वमोक्षस्य विधाय नूनं पुण्यविधेहि व्यवहारतस्त्वम् यात्मा चिरं भावय चित्तदेशे प्रादुर्भवत्येव स यात्मधर्मः॥
॥३०॥
॥३१॥
॥३२॥
For Private And Personal Use Only