________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १५९ )
चित्तं च रक्षाऽऽत्मनि देशतस्त्वं, वाण्या च सत्यं वद भूमिमध्ये । तनुं च रक्षाऽऽत्मनिदेशतस्त्वं, चास्वादयाऽऽत्मानुभवं रसं त्वम् शुद्धाऽऽत्मकीभूय कुरूपकारं,
सुदर्शने सत्यसुखं लभस्व । सुदर्शना त्वं भगिनी मदीया, तस्माच्चिदानन्दमवाप्नुहि त्वम्
तवाश्रयेऽहं निजसेवकानां,
शिक्षा प्रदत्ता च महार्हदीक्षा | देवाधिदेवेश सदा जय त्वं,
सुरासुरादिप्रतिषेवितस्त्वम्
प्रभो महावीर सदा जय त्वं, गुणाकरं च कृतवान्प्रबोधम् । सार्द्धं मया भक्तजनैञ्च सार्द्ध,
अदा हि देव प्रतिबोध मेतम् वेदापि त्वां प्रणमन्ति भक्त्या, देविश्वविश्राम सदा जय खम् ।
मुक्तिस्तु गानेन भवद्गुणानां, तवोपरि प्रीतिरियं हि भक्तिः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७८६ ॥
॥ ७८७ ॥
॥ १९८ ॥
॥ ७८९ ॥
॥ ७९० ॥