________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
(१३४)
मदर्थं जीविनो लोका मदर्थ कर्मकारकाः । निजाSSत्मानं महावीरं कुर्वन्ति हि जिनं प्रभुम् ॥ ६५१ ॥ सदाचारविचारै र्हि, जैनधर्मो जगत्त्रये । विश्वस्य सर्वजवानां, शुद्धिं करोति सर्वदा ॥ ६५२ ॥ परस्परोपकारार्थे, यतन्तां भूतले जनाः । मनोवाक्कायपावित्र्यं, धरन्तु मुक्तिहेतवे । ६५३ ॥ विश्वलोकान् सुखीकर्तु, जैनर्धमप्रचारणाम | कुरुध्वं सर्वखण्डेषु, नास्ति धर्म विना सुखम् ॥६५४॥ मबोधं प्राप्य जोलोका दर्शनज्ञानसंयमैः । अज्ञानपापकर्मच्यो रक्षत विश्वदेहिनः ॥ ६५५ ॥ कुर्वन्तु नैव पापानि, पुण्यं कुर्वन्तु मानवाः । आत्मज्ञानं हृदि प्राप्य, जवन्तु खोपयोगिनः ॥६५६ ॥ त्यक्त्वा मिथ्यात्विकीं बुद्धिं सम्यग्दृष्टिं धरन्तु भोः । दशां वैजाविकीं त्यक्त्वा, स्वाभाविकीं धरन्तु भोः ६५७ दुर्लभं दशदृष्टान्तै- लब्ध्वा नृजन्म मोहतः । हारयन्तु न सज्जन्म, धर्मं दधतु मानवाः ॥ ६५८ ॥ प्रमादाः परिहर्त्तव्या आत्मोत्साहप्रयत्नतः । विश्वासो नैव कर्तव्यो मोहस्य मोक्षकांक्षिनिः ६५९ दोषाश्चित्तोद्भवास्त्याज्या आत्मेक्षणविवेकतः । षडावश्यक कर्माणि कर्त्तव्यानि च संध्ययोः ॥ ६६०॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
*