________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२५ )
जडवादे न मुह्यन्ति, यान्ति चाऽऽत्मोन्नतेः क्रमान् । सदोर्ध्वगमनं तेषां विनिपातो न चान्तरः ॥ ५६१ ॥ बाह्यतो दुःखभोगेऽपि, चाऽऽन्तरमाऽऽत्मजीवनम् । बाह्यतो दुर्दशायुक्तास्तथापि चान्तराश्यते ॥ ६२ ॥ आत्मानन्दोदधौ मग्ना-ईश्वराः प्रजवो जिनाः । मज्ज्ञातारश्च सज्जैना- भवन्ति ध्यानयोगतः ॥ ५६३ ॥ मच्छ्रद्धायुक्तलोकाना -माऽऽत्मबलं प्रकाशते । रागद्वेषजयाभ्यासो, निष्फलो नैव जायते ॥ ५६४ ॥ रागद्वेषजयाभ्यासा - मोहशक्तिर्विनश्यति । प्रान्ते मोहारिनाशेन, जीवः सिद्धः प्रजायते ॥ ५६५॥ मच्छ्रद्धाष्टलोकानां विनिपातः सहस्रधा । बाह्यत इन्द्रतुल्यास्ते, चान्तरे कीटसदृशाः ॥५६६॥ आत्मज्ञान सुखार्थं स्यु, - मज्जैनानां विपत्तयः । प्रतिकूलञ्च यत्तेषां प्रत्युत मुक्तिहेतवे ॥ ५६७ ॥ पुण्योदयेन सातं स्या- दसतं पापकर्मतः साताऽसातविभिन्नोऽस्ति, स्वाऽऽत्मानन्दो निजाऽऽत्मनि
॥ ५६८ ॥
आत्मन्येव सुखं सत्य-मस्ति ज्ञानाद्विलोकय । मा म बाह्यजोगेषु, सुखार्थे वच्मि सद्वचः ॥५६९ ॥ रागस्य हेतवो ये ये, ते ते वैराग्यहेतवः । जवन्ति मम जैनानां, भोगाः स्युर्योगहेतवे ॥ ५७० ॥
For Private And Personal Use Only