________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११३ ) काले ततस्तद्विशदीकरोति,
तीर्थङ्करः स स्वयमेव भूत्वा ॥ ४९४॥ रागरोषविनाशार्थ-महतां जन्न जायते । विद्धि तीर्थकरं ब्रह्म, चाहन्तं गुणसागरम् ॥ ४९५ ॥ मिथ्यात्वादिविनाशार्थ-महतां जन्म जायते । दुर्गुणव्यसनं हन्तुं, धर्मतीर्थ प्रकाशते ॥४९६ ॥ दुश्शास्त्रनाशाय तथाऽऽर्यशास्त्र
प्रकाशनार्थ जगदीशदेवः । मिथ्यात्वभावादिकदोषहन्ता, विज्ञानशास्त्रादिकसर्ववेत्ता
॥ ४९७॥ तीथडरोऽहन्भगवान्स बुद्धः,
शुद्धः स्वयं शुद्धविनिश्चयेन । कलौ मदाज्ञां प्रकुरु प्रमाणं,
मामन्तिमं तीर्थपति च विद्धि ॥ ४९८॥ सुदर्शने !! वेदय मां त्वमेवं, ___ समाविश्वोद्धतिमाविधातुम् । ममावतारोऽस्ति विनिश्चयेन,
त्वं विद्धि सत्त्वप्रकृतिं दधानः ॥४९९ ॥ विश्वासकी भव मत्स्वरूपे,
विसृज्य मत्तोऽन्यविकल्पजालम् ।
For Private And Personal Use Only