________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१...) धर्मयुद्धे चलेदग्रे, नीत्या मोहेन न स्खलेत् । सर्वयुक्त्या च शस्त्रायै-युष्येन्नो पतितोलवेत्॥३८९॥ नोच्चनीचौ गुणैः कायः, संयमे धारयेन्मनः । भ्रांतोऽपि न त्यजेद्धर्म, योग्यं कर्म सदाऽऽचरेत् ॥३९॥ सत्पात्रे वितरेदानं, गुरुवाणी निशामयेत् । गुरुबोधाद्विदन्सर्वे, साधुवृन्दञ्च मानयेत् ॥ ३९१ ॥ स्वार्थेषु नो नवेदन्धो-दुर्गुणव्यसनं विना । गृहे क्लेशं न वा कुर्या-दतिलोभं न वा चरेत् ॥३९२॥ रागिद्वेषिनिदं विद्या-नापत्तौ खेदयेन्मनः । कुर्य्यात्सजनसंगं च, योग्याऽयोग्यं विचारयेत्॥३९३॥ व्यापारविद्यादिककर्म कुर्व
निजाऽधिकारेण च धर्म्यकर्म । सम्वेदयेचाऽखिलजातिनीति,
प्रेम्णा मदाज्ञामपि पालयेद्यः ॥३९४ ॥ प्रजादिराज्यादिककर्मकुर्व
प्रेम्णा परस्याऽपि सहायकर्ता । देशस्य राज्यस्य च पालने यः,
कर्म प्रकुर्वन्गुणिरागवान्स्यात् ॥३९५ ॥ घरस्थावरतीर्थानां, देवः स्याच्छुकसेवया । दानं शीलं तपोभावा-करोति शुद्धभावतः ॥३९६॥
For Private And Personal Use Only