________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९८ ) कुटुम्बं पालयेत्प्रीत्या, पूजयेत्सेवयेद्गुरून् । जैनवृद्धौ प्रकुर्य्याच, विद्यातनुधनव्ययम् ॥ ३६९ ॥ प्रामाणिक प्रवर्तेत, तस्याः स्याद्धृदि मन्मतिः। मदाज्ञया रतिं कुर्य्या-त्तस्याः स्यादुत्तमा गतिः ३१० सुलनः पतिभावो न, यदि सत्यं विचारयेत् । योग्यः स्याद्गुणकर्मभ्यां, निर्दोषी च निरोगवान् ३७१ आत्मभोगश्च निष्कामो-धृतिमन्नाम चेतसि । नारी परिणयेसैव, यो विद्याल्लग्नयोग्यताम् ॥ ३७२॥ प्रतिज्ञापालनं कुर्य्या-नान्धः स्यान्नामरूपयोः। अन्तः स्याच्छुनरागश्च, सेवाभक्तिविरागिता ॥३३॥ स्वार्पणं जैनसेवायां, मदाज्ञां शिरसा वहेत् । विद्यात्सर्वकलाशिक्षा, बुद्धिं मानं च सात्त्विकम् ३७४ कालोचितक्रियावेत्ता, कर्मयोगी शुनप्रदः। धीरो वीरोऽथ गम्भीरो-बलवान्पौरुषैर्गुणैः, ॥३७५॥ जानीयाद्वस्त्रवत्काय-क्षयादिरोगवान्न यः । गुणी वाकायचित्तै यो-लग्नयोग्यः स वै पतिः॥३७६॥ समाजसंघसेवाया-मानन्दी क्लेशवर्जितः । उद्योगी साहसी लक्ष्यी, यश्चित्ते सन्ति साधवः॥३७७॥ सहेत कोटिदुःखानि, मच्छ्रद्धामन्तरे वहेत् । उदारो ज्ञानवान्प्रेमी, सात्विकाहारभोजनः ॥३८॥
For Private And Personal Use Only