________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९६ )
वञ्च्या न परपुंसा स्याच्छीलं रक्षेत्सुखप्रदम् । न मुह्येश्वर्मरङ्गेन, शिक्षां मे या च मानयेत् ॥ ३४९ ॥ कर्मणा यो मिलेगर्ता, तत्रैव प्रीतिमाचरेत् । पत्यो धर्मेच्छया रागं, त्यागं चापि दिवर्द्धयेत् ३५० वैराग्यं प्रतिरागं च धर्म्यकामा समाचरेत् । मिथ्या कटु च न ब्रूया - दुपानम्नान् सहेत सा ३५१ पत्युश्चिन्तां च जानीया - होधयेत्तत्सहायकृत् । पत्याऽऽत्मनाचरेत्प्रेम, पतिसौख्यं च कामयेत् ३५२ गोपयेत्पतिमर्माणि, तद्विश्वासं न खण्डयेत् । श्वश्रूश्वशुरसन्मानं, गुरुसाधुगुणान्रटेत् ॥ ३५३ ॥ मिथ्याग्रहाँस्त्यजेत्सर्वान्, गम्भीरा मां जजेत्परम् । विस्मरेन्न सुखे दुःखे, चाभ्यस्येदपि साम्यतः ॥३५४॥ न त्यजेज्जैनमर्यादां, सत्यासत्यं विचारयेत् । प्राणान्तेऽपि त्यजेन्नैव, धर्मे कुर्याद्गृहक्रियाः ॥ ३५५॥ सरागा प्रतिवेश्मिन्यां, परनिन्दां न वाऽऽचरेत् । गुणार्जवे कृतप्रीति - क्तिर्मूर्तिमती यथा ॥ ३५६ ॥ बालकं पालयेत्प्रेम्णा, विद्यां नीतिं च शिक्षयेत् । सत्यं ब्रूयात्प्रियं ब्रूयाद्धर्मे पातिव्रते दृढा ॥३५७॥ वैद्यकज्ञौषधं कुर्य्याद्, गृहे सद्वस्तु पूरयेत् । विद्याद्गृहस्थितिं सर्वा, समाना सुखदुःखयोः ॥ ३५८ ॥
-
For Private And Personal Use Only