________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्ज्ञानधर ? चतु र्यामधर्मप्रदर्शक ? चतुर्गतिप्राणिगण-प्रीतिदायिञ्जयप्रभो ? ॥१॥ धन्यास्तास्त्रिजगन्नाथ ? भरतक्षेत्रभूमयः । तीर्थेश ? जङ्गमं तीर्थ यासु त्वं विहरिष्यसे ॥२॥ अस्मिन् वससि संसारे, संसारेण न लिप्यसे । पङ्कजं पङ्कजमपि याति पङ्किलतां नहि ॥३॥ तवाऽसिधारासोदय जयतीदं महाव्रतम् । कर्मपाशच्छेदनाय प्रभविष्णु जगत्प्रभो ? ॥४॥ निर्ममोऽपि कृपालुस्त्वं निम्रन्थोऽपि महर्द्धिकः । तेजख्यपि सदा सौम्यो धीरोऽपि भवकातरः ।।५।। नितान्तं पूजनीयः स नाकिनां मानवोऽपि सन् । विहरन् कार्यसे येन पारणं विश्वतारणम् ॥६॥ महोपकारजनकं स्वामिन्न विरतस्य मे ।
औषधं व्याधिस्तस्येव भवदर्शनमीदृशम् ॥७॥ त्रिजगन्नाथ ? नाथामि त्वयि भूयान्मनो मम । अनुस्यूतमिवोत्कीर्णमिव श्लिष्टमिवाऽ निशम् ॥८॥
५१
For Private And Personal Use Only