________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ur
श्रीसम्भवः सम्भवतीर्थनेताविराजतेऽसौ मदनैकजेता । जयावहं शस्तमसूत मातायकं जितारिक्षितिकान्तकान्ता ॥१॥ दामार्चितः स्वर्णधनप्रदाता नयैरभाद् यः समताविधाता । गति स शैवीं भुवनैकपाताऽच्छायास्पदं यच्छतु धीजनेता ॥२॥
धिनोतु युष्मान् गुणवृक्षजातारामः स सत्पूर्वपथानुयाता । जगन्मता नीतिसुताऽतिपूतापापापहा येन जने प्रसूता ॥३॥
दौर्जन्यपर्जन्यसमीरपाता-भवन्मतिः कस्य समस्तसाता । जाता न शैनेय ? सदाऽभिभूता-ऽमितारिरुध्धूतवसन्तसता ॥४॥ इति मुदितमनस्को मूर्धगाचार्यनामा
ऽक्षरकमलनिबन्धैबन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ
स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥५॥
For Private And Personal Use Only