________________
Shri Mahavir Jain Aradhana Kendra
क्षमा कल्याणजी
www.kobatirth.org
५
( खग्धराछन्द: )
यद्भक्त्यासक्तचित्ताः प्रचुरतरभवभ्रान्तिमुक्तामनुष्याः संजाताः साधुभावोल्लसितनिजगुणान्वेषिणः सद्य एव । स श्रीमान् संभवेशः प्रशमरसमयो विश्वविश्वोपकर्ता सर्ता दिव्यदीप्तिर्परमपदकृते सेव्यतां भव्यलोकाः ||१||
२२
Acharya Shri Kailassagarsuri Gyanmandir
शुक्लध्यानोदकेनोज्जवलमतिशयितवच्छभावाद्भुतेन
स्वस्मादाहृत्य व्रतं शिवपद निगमं कर्म पङ्कप्रपञ्चम् । नीरन्ध्र दूरयित्वा प्रकृतिमुपगतो निर्विकल्पस्वरूपः सेव्यस्तार्क्ष्यध्वजोऽसौजगति जिनपतिर्वीतरागः सदैव ॥२॥
वाधै विद्योतिरत्नप्रकरे इवपरिभ्राजते सर्वकाले
यस्मिन्निः शेषदोषव्यपगमविशदे श्रीजिता रेस्तनूजे । दुष्प्रापो दुष्टसवैः स्फुटगुणनिकरः शुद्धबुद्धिक्षमादिः कल्याण श्रीनिवासः स भवति वदताऽभ्यर्चनीयो न केषाम् ? ॥ ३ ॥
For Private And Personal Use Only