________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३७
Acharya Shri Kailassagarsuri Gyanmandir
कालेन क्षीयते पुण्यं, संचितं विधियोगतः । इतिध्यात्वा सदा दानं, विधातव्यं मुमुक्षुभिः ॥ ४८३ ॥ भर्तुकामः सदा योग्यायोग्यभेदविमूढधीः ।
न जानाति हितं स्वस्य, परद्रोहपरायणः । ४८४ ॥ इन्द्रियार्थरता लोके, परमार्थपराङ्मुखाः ।
इहापि दुःखिताः सत्त्वाः, परत्र क्लेश सेविनः ॥ ४८५ ॥ मन्मथस्य वशं यातः, को न मग्नोऽतिसङ्कटे । स्ववशं कपिसैन्यं हि, क्षीराब्धि तीर्णवत्क्षणात् ||४८६ ॥
|
आत्मवैभवसंपन्ना-स्तारयन्त्युचिताञ्जनान् ।
अश्मप्रवहणप्राया- आत्मतत्त्व विवर्जिताः ।। ४८६ ॥
सेव्यतामक्षयज्ञान - सेवधिः सद्गुरुः सदा ।
अज्ञानोपहतस्याशु, संगतिः कुगतिप्रदा || ४८७ || कुगतिः सुगतिश्चैव, कर्मराशि समुद्भवा ।
तस्मात्सत्कर्मताशस्या, विकर्म परिवर्जयेत् ॥ ४८८ ॥ सत्कर्मवर्मितो जन्तु - रमेोऽरिकदम्बकैः ।
सुरक्षितो यथा मंत्रो - दीर्घकाले न भिद्यते ॥ ४८९ ॥ सूर्याचन्द्रमसौ लोके, प्रकाशेते दिवानिशम् । राहुणा बाधित नैव सज्जना हि निरादाराः || ४९० ॥
For Private And Personal Use Only