________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहोरात्रं सदाजन्तो-गच्छत्यागच्छति ध्रुवम् ।
तेनैव केवलं स्वायुः, क्षीयते हि विधर्मिणः ॥११८॥ पशूनाश्च नराणाञ्च, विशेषोमतिशालिता।
अन्यथा तु समं सर्व, पानभोजनमैथुनम् ॥११९॥ परवादरताजनताऽगतिका, निजकर्मरताऽऽदरवत्यखिला । प्रभुताऽभयदासुलभातदनु, क्षमतावृणुते किल तं नृवरम्॥१२० विद्वांस संगताः सर्वे, न केऽपि मूर्खसंगतौ ।
सर्वथा वर्तमानाये, ते भजन्ति विमूढताम् ॥१२१॥ कामं नृपाः सन्तिसहस्रशोऽन्ये, राजन्वतीमाहुरनेनभूमिम् । धर्मास्तु दाक्षिण्यदयाप्रधाना-जिनोदितः केवलमेव सत्यः।।१२२ शूरं सदाभक्तियुतं च मनु-मुत्यादय त्वं जननि ! प्रभूत्यै । दानमियं वन्ध्यतयाविभाव्यं, त्वयान्यथा क्लेशपरम्परातः॥१२३
अनित्याः शत्रवो बाह्या-विप्रकृष्टाश्वते यतः। - तस्मादभ्यन्तरान्नित्यं, जहित्वं स्वात्मबोधतः ॥१२४॥ सिद्धावस्थासदाशस्या, दीव्यसौख्यमहालयः ।
अभव्येन दुरापाऽसौ, निर्मदाऽन्तिकसंस्थिता ॥१२५
For Private And Personal Use Only