________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
48
मालाकारः पयः सेका दुद्यानसंपदान्वितः । तथैवान्मतो-राधना फलति ध्रुवम् ॥ २३ ॥ कुटिलेष्वपि कौटिल्यं, सज्जनादधते न वै । सूर्याचन्द्रमसोः छाया, सर्वत्र समवर्त्तिनी ॥ २४ ॥ विवेकिनो विकारं नो, प्राप्नुवन्तिक्षयावहम् । फलन्तितरवः काले, फलदा न विघातकाः ॥ २५ ॥ भवन्तिमहतः पुण्या - त्कारितानि पदेपदे ।
कृतकर्मवशाल्लोका लभन्ते हि शुभाशुभम् || २६ ॥ दैवमुद्दिश्यलोकोऽयं साधयत्यखिलेप्सितम् ।
यत्रकुत्ररतिर्लोके, सुखदा प्राणिनां ध्रुवम् ॥ २७ ॥ यादृशी संगतिर्येषां तादृशं तद्विवेष्टनम् ।
न हि बन्धुसंसर्गा-त्सत्फलाप्तिर्भवेन्नृणाम् ॥ २८ ॥ काञ्चनाकारसद्बुद्धिं क्रीणन्तिपुण्यशालिनः ।
काञ्चनं जनयत्याशु, सद्बुद्धिः कामगौरिव ||२९|| संपत्तिर्बुद्धिमूलैव, धर्ममूला हि सा स्मृता ।
सोऽपि सत्संग मूलः स - पूर्व पुण्यप्रभावतः ॥ ३० ॥ सन्तुष्टोऽमृतपानेन, सदाचारविराजितः ।
व्यरमत्स्वक्रियारक्तः, परस्वेभ्यः शुभाशयः ॥ ३१ ॥
For Private And Personal Use Only