________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परबोधकृत सन्तो-ऽसन्तुष्टा विमलाशयाः ।
परोपकारव्यसनाः, कियन्तः सन्तिभूतले ॥ ५ ॥ स्वदोषान्नैवपश्यन्ति, परदोषपरायणाः ।
जनताविमनस्काहि, पूर्वापरविचक्षणा ॥६॥ कामद्विषन्तुलोभेन, मायिनोदययोज्झिताः । __वायुनावेगतःक्षिप्ते, धूलिपुञ्जेऽपि किं रवेः ॥७॥ शशिसाम्यं सदाशस्य, सदसज्जनतापहम् ।
स्वसुखायैक कोयत्नं, कुरुते न निजोचितम् ॥ ८॥ कालातिक्रममासाद्य, विपरीतगतिं व्रजेत् ।
सहस्रकिरणोऽप्यत्र, भजते विविधक्रमम् ॥ ९॥ सुधांमुधाकरीत्येव, वाक्मुधासुधियोदिता । __ तत्त्वज्ञानं ततः प्रोक्तं, तस्मात्सैवसुधास्मृता ॥१०॥ विफलं चरितं लोके, गर्दास्थानमनादितः ।
येनकेनाऽप्युपायेन, साफल्यं तनुते बुधः ।। ११ ॥ क्रमसाध्यानि कार्याणि, सफलानि भवन्ति हि ।
अकाले नैव पच्यन्ते, सस्यानि कृषिकर्मणाम् ॥१२॥ नम्रीभवन्तिसर्वत्र, तरवःफलशालिनः ।
सचेतना अपिस्तोका-विपरीतक्रियापगः ॥ १३ ॥
For Private And Personal Use Only