________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नराऽमरेन्द्रस्पृहणीयशीलः, कुमारपालः क्षितिपालमुख्यः । शशास भूमण्डलमेकवीरः, शचीपतिर्देवभुवं यथैव ॥ २॥ निर्मापितस्तेन वरेण्यवर्णः, श्रीशान्तिनाथस्य महाविहारः। प्राक्पुण्यभारार्जितशुद्धकीर्ति-व्रजः स्थितोरम्य इचाऽतिभाति॥३ इयहरक्षोणिधरोविभूषां, श्रीशान्तिनाथालयतो विशेषात् । चकास्ति संपाप्य धराधराणां, राजेव चूडामणितां प्रपन्नः॥४॥ द्विपञ्चसंख्याममितानि जैन-चैत्यानि रेजुः परितः प्रधानम् । श्रीशान्तिगेहं जितनाकशोभ, तारागणस्था शशिमण्डलीव॥५॥ अयं जिनालयो दुर्गे, कुमारपालनिर्मितः खरतरीयक्रमायात पट्टावल्यामितिस्मृतम्
॥६॥ श्रीवीरतोवाणवसुद्विवर्षे, वभूविवान् संप्रतिभूमिपालः । व्यभूषयद्यो धरणी जिनालयैः, सहस्रसंख्यैरतुलप्रभाधरैः ॥७॥ बिम्बानि तेनैव सहस्ररश्मि-तेजोभिभावीनि विधापितानि । विलोकयन्संप्रतिभव्यलोक-स्तनोति सम्यक् शिवसंपदं साक् ॥८ इलादिदुर्गेऽत्रविधापितोऽसौ, श्रीशान्तिवासः क्षितिपेन तेन । इत्थं पुरात्तविदोवदन्ति, प्रमाणमेतत्सुधिया विलोक्यम् ।।९।। इयहरं प्राक्तनमेव पत्तनं, जिनालयश्रेणिविराजमानम् । चकास्ति सम्यक्त्वविभासि चेतः, श्रादः वसन्त्यत्र मुनीतिभाजः।।
For Private And Personal Use Only