________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीझघडियातीर्थस्तोत्रमपरम् ॥
( मन्दाक्रान्तावृत्तम् ) यो विश्वेषा-मभयजनकः सत्यवाणीविलासो
यः सत्त्वानां विधुरमखिलं नाशयत्यात्मभावात् । यःपारोक्ष्यं परगतमजो-ध्यातएव च्छिनत्ति,
आदीशंतं वरझयडिया-भूषणं नौमि नित्यम् ॥१॥ सद्यः शान्ति-र्भवतिमनना-द्यद्विभूतेर्जनाना
मात्मानन्दः प्रभवति परो-त्कर्षतादानदक्षः। बाह्योभाव-स्त्यजति हृदयं शुद्धशान्तस्वरूप
मादीशंतं वरझघडिया-भूषणं नौमि नित्यम् ॥२॥ सोपानालि-विलसति महा-चैत्यसंवन्धिनीया तामाश्रित्या-ऽक्षयसुखगता जीवलोका(भव्यजीवा)भवन्ति । मूर्तियस्य प्रवरविभया भ्राजमानां विलोक्य,
आदीशंतं वरझघडिया-भूषणं नौमि नित्यम् ॥३॥ मूर्तियाव-त्तवविषहरां शुद्धधर्मानुरक्ता
नो वीक्षन्ते परजनकृपा-कांक्षिणो वीतमोहाः। पापच्यन्ते भयदभुवने तावदक्षीणपापा ।
आदीशंतं वरझघडिया-भूषणं नौमि नित्यम् ॥४॥
For Private And Personal Use Only