________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सदा नदत्यहो यदीयतूर्यन्दमद्भुतं __ नमोऽस्तु ते सदाऽऽदिनाथ केसरप्रिय प्रभो ? ॥७॥. अमन्दमन्दभावनामरुपदेशपाविने
कलौ मलौघहारिणेऽधहारिणे सुदेहिनाम् । विभिन्न भिन्नचेतसामखण्डितोग्रदीप्तये
नमोऽस्तु ते सदाऽऽदिनाथ केसरप्रिय प्रभो ? ॥८॥ स्वभावभावितात्मना सुपुण्यशालिनाङ्गिना
प्रभातकाल उत्तमं हि केसरप्रियाऽष्टकम् । सुखप्रदं सुभण्यते सदैकभावतो हृदि तदा क्रमेण शैवसंपदं श्रयेत्स मानवः ॥९॥ श्रीशङ्केश्वरपार्श्वनाथस्तोत्रम् ॥
( शार्दूलविक्रीडितवृत्तम् ) त्रैलोक्याधिपरम्परोपशमनक्षेमप्रधानौषधं __ कैवल्याधिपति चराचरपतिं देवाधिदेवस्तुतम् । संख्यातीतवरेण्यचारुचरितं सम्यक्त्वसारप्रदं
श्रीशङ्केश्वरपार्श्वनाथमुनिपं ध्यायामि नित्यं मुदा ॥१॥ तिग्मांशुस्तनुतां जगाम भवतोऽनन्तप्रभाराजिभिः
शीतांशुः क्षयतां गतोऽपि नितरां तचिन्तया दूरगः ।
For Private And Personal Use Only