________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निजपवित्रचरित्रमनोगति-मतिमतांवरराजिभिराश्रितः ।
विमलनीलवरातिराजित-उचितवममहाव्रतदेशकः ॥ २ ॥ विगतसंशयमेवसदास्थितो-निजपरात्मविभेदविभेदकः।
सुरपतिप्रकरप्रथितोत्तम-शुभयशःप्रकरःप्रथिताशयः ॥ ३ ॥ मकरराशियुतः शुभराशिमा-नतजनार्तिहरोमहसोर्जितः ।
वरगुणोदितदीव्यवपुर्धरः, सुभगलक्षणलक्षितपत्कजः ॥४॥ विततनित्यपदार्थनिरूपकः, शमितदुष्पथिताऽन्यनिरूपणः । शिवसमृद्धिवितानविवर्द्धको-विजयतांमुनिसुव्रततीर्थकृत् ।।५।।
श्रीनमिनाथस्तवनम् ॥ २१ ॥
( पश्चचामरछन्दः ) नमज्जगज्जनवजं सुरेन्द्रसेवितक्रम, ___ क्रमाङ्गलीनखविपातिभासिताम्बरालयम् । जगत्पतेनमीशसत्यरूपसर्वदास्थितं,
भवन्तमेव संस्तुवैमनःसरोरुहेमुदा ॥ १ ॥ प्रकाशयत्यशेषलोकभव्यमानसाम्बुजा
न्यहोविचित्रधामराशिरक्षतस्त्वदुत्थितः । समानतांनुतावक्रीविभोभजन्तिनश्वर
प्रभाधरोष्णरश्मिशीतरोचिरादयःकथम् ।। २.
For Private And Personal Use Only