________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૭
जनमनोरथदेवतरुत्तमो - निखिल दोषविवर्जितमानसः । अनुपमोत्तमतत्त्वविभासकः, सकरुणोऽर्धनीयः सततं सताम् ॥ ४ ॥ विततभव्य सरोजविबोधने, निशितरश्मिरनुत्तमशासनः । विहितदुष्टपराक्रमरोधनः, शुभवतामवताद्गणमीश्वरः ॥ ५ ॥
श्री कुन्थुनाथस्तवनम् ॥ १७ ॥
( पञ्चचामरछन्दः )
प्रभूतभूतिसौधमानसाघराशिदारक, प्रपूजनीयपादवारिजमभिन्नरागधीः । सुमन्त्रतन्त्रजातसिद्धिरन्वहं लुठत्य हो, पदाम्बुजेमुरार्चनीयकुन्थुनाथ ? तावके ॥ १ ॥
महाप्रभाभरोर्जितं जितान्तरारिजातकं,
प्रजेशसूरनन्दनं सुनन्दनं सुमेधसाम् ।
प्रसिद्ध सिद्धविद्ययाश्रितंसिताम्बुजाननं, सदोद्यतोहमीश्वरं नमामिविश्ववन्दिनम् ॥ २ ॥ सुमेरुभूधरेन्द्रधीरवीर्यसारमुस्कटं,
सुभोग्यभोगवर्जितं प्रमर्द्दिताधिवेदनम् । अयोग्ययोग्यनीतिरीतिपारगामिनंवरं, भजध्वमाशुजन्तुजातखेदखेदकं जिनम् || ३ ||
For Private And Personal Use Only