________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܐ
Acharya Shri Kailassagarsuri Gyanmandir
स्वरूपस्थितंसर्वलोकप्रकाशं, जनोयोगतः सिंहसेनात्मजातम् । निरीक्षेततं नेत्रवन्तंजनेषु, सुधन्यं भवोद्भेदकारंहिमन्ये ॥ ३ ॥ समाराधतेऽनन्तनार्थविनाथं, जनः सज्जनानन्ददायी सुधीर्यः । तदीयाऽखिला वांछिता कार्यसिद्धिः, सदासन्निधिंनोकदाचिज्जहाति सुखाधारकं मीनराशिप्रतीत - मनन्तंजिनेशं कृपावारिराशिम् । भवोत्तारकं तंनमन्तुप्रसन्नं, जनाइष्टलब्धिप्रदातारमीशम् ॥ ५ ॥
श्रीधर्मनाथस्तवनम् ॥ १५ ॥
( कामक्रीडाछंदः )
सत्यज्ञानं भास्वद्रूपं धर्मात्मानं ध्यातॄणां ध्यानीयाङ्गं सिद्धिक्षेत्रं प्रेमा मन्त्रं नक्षत्रम् | चिन्तारत्नं नष्टायत्नं वन्देप्रत्नं दुःखन्नं,
धर्मेशानं वृत्यालानं सन्नामानं भूमानम् ॥ १ ॥ संतप्तानां सम्यक्त्राता मारीहर्त्ता त्वंभर्त्ता,
दीनादीना - मापद्धर्त्ता संपत्कर्त्ता सवानाम् । दुर्भावानां नित्यंहर्त्ता सिद्धेर्दाता निर्माता, विश्वत्राता कामादीनां मूलोद्धर्त्ता विख्याता || २ || स्तोतुंयोग्यो भन्यैर्भाग्यै योग्यैर्गम्यो विज्ञेयः, श्रद्धाध्येयो बुद्धगा मेयो भक्तैर्गेयः संश्रेयः ।
For Private And Personal Use Only