________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूताधिनाथवसुपूज्यनरेशगेहे
संपापजन्मसुखदंजगतीगतानाम् । यः सर्वदः शमनको विषदांजनानां
तं वासुपूज्यपरमेशमहंस्तवीमि ॥ ४ ॥ सत्यात्मलब्धिजननोत्तमहेतुमन्यं
त्वामन्तरेण भवतारकनैवमन्ये । तस्मात्त्वदीयचराणाम्बुजदर्शनंमे
शान्तिपदायिसततं जिनपुङ्गवाऽस्तु ॥ ५ ॥
श्रीविमलनाथस्तवनम् ॥ १३॥
(हरिणीवृत्तम् ) उपकृतमति, संसारेऽस्मि-न्महत्यधिदैवत___ मखिलसुकृति-श्रेणीसेव्यं, विनाशितविमियम् । विपुलविलस-त्सत्यज्ञान-प्रदायिनमीश्वरं,
विमलमरि-हन्तारं नित्यं, नमामिविभूतये ॥१॥ प्रशमसुखदं, श्यामासून, विचित्रकलान्वितं,
भवरतिहरं, शुद्धानन्दं, सदात्मरुचिपदम् । कुमतिदलनं, स्वात्मारामं, परार्थपरायण,
सुमतिसदनं, भग्नक्षोभ, भजेविमलाधिपम् ॥ २ ॥
For Private And Personal Use Only