________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीमदजितनाथस्तवनम् ॥ २ ॥
( मालिनीवृत्तम् )
वरविजयविमानं, पुण्यवान्प्रोज्झ्यसयो
हतभवमनुजाङ्गं, माप्तवान्प्राप्तरेखः ।
क्षपितभवभयारि-ध्येयमूर्तिप्रभावो
Acharya Shri Kailassagarsuri Gyanmandir
ऽजितजिनवृषराशि-र्मङ्गलंबोददातु ॥ १ ॥
सकलभुवनसौख्य-श्रेणिदाताऽवदात
चरितगुणगणेनो-द्भासमानाङ्गयष्टिः ।
जगतिसकल मान्यो - भव्यमुद्रास्वरूपः,
सजयतियतिपूज्यो, वायुभुग्योनिरीशः ॥ २ ॥
विलसति शिवशान्ति र्यस्यपादारविन्दे,
अघविततिरजस्रं, दूरतः संस्थिता च । नरपतिजितशत्रो - रन्वयाब्धिक्षपेशः,
सविभ्रुरजितनाथ-स्त्रायतांभूतसंघान् ॥ ३ ॥
कलित कलिगुणानां, मानवानांनतानां, निजपदमतिशोकं, दानदक्षोददानः ।
प्रवरमहिमभर्त्ता, तारकोयः श्रिताना
मजितजिनवरोऽसौ पातुमांतीर्थनाथः ॥ ४ ॥
"
For Private And Personal Use Only