________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ।। २० ।। मन्ये वर हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदय त्वयि तोषमेति । किं वीक्षितेन भवता ? भुवि येन नान्यः, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ।। २१ ।। स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतौं त्वदुपम जननी प्रसूता । सर्वा दिशो दधति भानि सहस्त्ररश्मि, प्राच्चेव दिग् जनयति स्फुरद शुजालम् ॥ २२ ।। त्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ।। २३ ।। त्वामव्यय विभुमचिन्त्यमससंख्यमाद्यं, ब्रह्माणमीश्वरमनन्तमनङ गकेतुम् । योगीश्वर विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४॥
For Private And Personal Use Only