________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. २०
प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र, नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥
अल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति, तच्चारुचूतकलिकानिकरैकहेतुः
त्वत्संस्तवेन भवसन्ततिसन्निबद्ध, पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु, सूर्या शुभिन्नमिव शार्वरमन्धकारम् ॥७ ।।
मत्वेति नाथ ! तव संस्तवनं मयेद मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ।।८।।
आस्तां तव स्तवनमस्तसमस्तदोष, त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरण: कुरुते प्रभव, पद्माकरेषु जलजानि विकाशभांजि ॥९॥
For Private And Personal Use Only