________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४४ )
चिणोतु विघ्नानि सुवर्णवर्णा, तवाधिरूढोचितगांधिकाऽऽशाः । विभासयन्ती निजभाचयेन, गौरी वरीयोवदनाऽरविन्दा || ४ ||
श्रीनमिनाथजिनस्तुतिः ॥ २१ ॥ ( शिखरिणीवृत्तम् )
नमि: पापत्राता, विदलयतु मे कर्मविततिं, विमायासं चारो विधुतमदमानोऽतिरभसा । प्रणेता हृद्यामो-नमदमर भव्या भयकृतां. प्रगल्भाऽनङ्गच्छि-द्भवभयहरो हृद्यवचसाम् ॥ १ ॥ जिनाऽधीशव्रातः, शमितभवदावाऽनलभयः, नमनाकीशानां वरमुकुटरत्नाऽरुणपदः । नताऽनन्तान्रातु, चपितमद मोहाऽतितिमिरः, पराभूतानङ्गः, प्रवरवरदानैकविदुरः ॥ २ ॥ श्रुतं स्फीतं गीतं, जिनपतिकदम्वेन निखिलं, भवाऽऽतङ्कच्छेदि, प्रमितनयभङ्गेन निचितम् | जनानन्दं दिश्या-द्भवभयहरं धर्मसदनं, सुधर्मायां कामं, स्तुतममरलोकैः सुखमयम् ॥ ३ ॥ विपक्षश्रेणि वो - विघटयतु काली घृतगदा, समारूढाऽम्लान प्रवरकमलं निर्भयकरी । वराक्षाणां मालां, विशदवदनाऽऽनन्दवसतिदधाना निर्माया जलधितनयातुन्यविभवा ॥ ४ ॥
>
For Private And Personal Use Only