________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
9
( १९ )
श्रीमल्लिनाथजिनस्तवनम् ॥
( तोटक छन्दः )
9
श्रुततश्वसुतश्वघरं प्रवरं वरदं सितदन्तविभाविभवम् । परमोत्तममलिजिनं शिवदं, दमितेन्द्रियवारमजं जपत ॥१॥ नृपकुम्भसमुद्भवसिद्धभवं भववारिविशोषककुम्भभवम् । जनताप्रणतक्रमतामरसं वरमल्लिजिनेशमहं कलये ॥ २ ॥ निरुपाधिकसंपदतिप्रमदं, प्रभया विलसन्तमनुत्तमया । तमसा विकलं सुकलं मृदुलं, जगदीशमलं स्मरतेष्टबलम् ॥ ३॥ भजराशिभृतं निभृतं क्षमया, परिशोभितभीतिविवर्जितनुम् । परिखण्डितमानसमानरतिं, नमताऽखिल भव्यजनाः! सुजिनम् ॥ सततं भवतारक ! मल्लिविभो !, जगतामशिवं हर तापहर ! | तव पादसरोजर तिर्भवतु भवतेतिविधेयमनन्त ! मयि ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
"
श्रीमुनिसुव्रतजिनस्तवनम् ॥ २० ॥
( द्रुतविलम्बितवृत्तम् ) विकचतामरसाऽऽभशुभाऽऽननो-विदलिताऽखिललोकतमोभरः । विषयवासनयोग्रथिताऽऽत्मनां, हतधियांभवपाशविमोचकः॥ १ ॥ निजपवित्र चरित्रमनोगति - मतिमतां वरराजिभिराश्रितः । विमलनीलवरद्युतिराजित - उचितव महाव्रतदेशकः ॥ २॥ विगतसंशयमेव सदा स्थितो - निजपराऽऽत्मविभेदविभेद्रकः । सुरपतिप्रकरप्रथिवोचम- शुभयशः प्रकरः प्रथिताऽऽशयः ॥ ३॥
For Private And Personal Use Only