________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगतिसकलमान्यो-भव्यमुद्रास्वरूपः,
स जयति यतिपूज्योवायुमुग्योनिरीशः ॥२॥ विलसति शिवशान्ति-र्यस्य पादारविन्दे,
अघविततिरजस्रं दूरतः संस्थिता च । नरपतिजितशत्रो-रन्वयाऽधिक्षपेशा,
स विभुरजितनाथ-स्त्रायतां भूतसंघान् ॥ ३॥ कलितकलिगुणानां मानवानां नतानां,
निजपदमतिशोकं दानदक्षोददानः । प्रवरमहिममा तारकोय:श्रिताना
मजितजिनवरोऽसौ पातु मां तीर्थनाथः ॥४॥ जननमरणशान्ति-र्यक्रमाऽम्भोजयुग्मं,
सकृदपिमनुजानां जायते पश्यतां द्राग् । कृतनिजकृतिशान्ति-मैग्नतान्तिप्रकारः,
स जगदखिलसिद्धि, तीर्थनाथोददातु ॥५॥
श्रीसंभवनाथस्तवनम् ॥३॥
( उपजातिवृत्तम् ) अवेयकात्सप्तमतोऽतिपुण्य-श्युत्वाऽतिशस्तान्मृगशीर्षजन्मा ।
नमाम्यहं संभवनाथमीशं, तं मोक्षदं देवगणं वरेण्यम् ॥१॥ निधानमक्षीणममन्दसंपदा, निदानमक्षय्यगुणव्रजानाम् । पात्रं परं ज्ञानवचोऽमृताना, ध्यानाऽधिरूढं कुरु युग्मराशिम् ।।
For Private And Personal Use Only