________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१९)
द्वारं द्वारं विषमयगतेः संततं रोधयन्तं,
मूरिं वन्देऽजितजलनिधि निर्मलाऽऽत्मप्रबोधम् ॥८॥ हेमेन्द्रेण ग्रथितममलं स्तोत्रमेतत्प्रभावं,
शिष्येणेहश्रमणगुणताभ्राजिना जातभावाः । भव्यात्मानः शिवमुखमयं दीव्यधाम प्रयान्ति,
पापठ्यन्ते क्षतलिमलं तेऽश्रमेण क्रमेण ॥९॥
( त्रोटक वृत्तम् ) (३)
प्रणमामि गुणाक ग्मातिहरं. शुभशान्तिकर गुरुधामधरम् । अजिताऽम्बुनिधि गुणवृन्दयुतं, हृदयस्थतमोहरणैकरविम् ॥१॥ कलिदोषहरं नतसौख्यकरं, परमाऽमृतपानरतं भजत । अजिताऽब्धिममेययशोभरितं, जनतारकमुन्नतिदं भवतः ॥२॥ विपुलर्द्धिकरं गतरोषभयं, वरकीर्तिकरं शुभबोधगृहम् । स्तुतिगोचरमातनुत प्रवरं, प्रवराऽऽशयमाश्रमिणां सुखदम् ॥३॥ सुखकारकमूर्तिधरं दमिनां, दमिताऽऽरिचयं निचयं सुपदाम् । मदमोहजितं जितलोकभयं, भजताऽजितमूरिमखण्डधियम् ॥४॥ जिनशासनवृद्धिकरं विमलं, विमलाचलभक्तिरतं सततम् । गुरुपादरतिं दधतं विपदं, प्रणमन्तु सदाऽजितमूरिवरम् ॥ ५॥
For Private And Personal Use Only