________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०२) वख्याननौकां प्रतिपद्य तेऽञ्जसा,
तरन्ति तं शुद्धविचारचारका
॥८॥
अर्बुदाचलश्रीनेमिजिनस्तवनम् । विकासमाज भजतां सुरद्रुमं, ___ सुरेन्द्रवृन्दै रचितप्रभावम् । विकारहीनं विजितारिभावनं,
श्रीनेमिनाथं प्रणमामि नित्यम् ॥१॥ कायेन वाचा मनसाऽपि नित्यशो
निषेवितो यः प्रददात्यमेयाम् । सुसंपदं देवगणैरतर्कितां,
तं नेमिनाथं प्रणमामि नित्यम् ॥२॥ विदेशमाजोऽपि समीपगामिना,
स्मृतेशाद्यस्य फलं लभन्ते । स्वर्गाऽपवर्गीयमशेषमहत
स्तं नेमिनाथं प्रणमामि नित्यम् ॥३॥ राजीमती यं चकमे वरीतुं,
दीव्यप्रभाभूषितचारुरूपा । संत्यज्य तां मुक्तिरमामियेष,
तं नेमिनाथं प्रणमामि नित्यम् ॥ ४ ॥
For Private And Personal Use Only