________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६९) यो विद्यानां सकल सुबने सिद्धिदानां प्रणेता,
तं सूरीशं समुदितमना हेमचन्द्रं स्मरामि ॥४॥ शास्त्रश्रेणी विविधविषयां यो वितेने विशालां,
सञ्चारित्रा-ण्यतिरसमया-न्यद्वितीयानि चक्रे । सिद्धान्तानां जिनततिकृतां पारदृश्वाऽवनौ य
स्तं सूरीशं प्रमदमनसा हेमचन्द्रं भजामि ॥५॥
नक्षत्रेश-प्रमितवदनं वन्दनीयक्रमाज,
विनवात-प्रमथनपटु-स्वच्छमद्रास्वरूपम् । शान्ताशान्तं मनुजपदवी पूर्णतायै प्रयातम्,
वन्दे भूय-स्तमतुलगुणं हेमचन्द्रं यतीन्द्रम् ॥६॥ सिद्धचोणी-पतिमतिदया-दक्षिणं यश्चकार,
योगाङ्गानि चतमलचया-न्याततानातिशुद्धः। पीठारूढोऽम्बरतलगतोऽबोधयत्सभ्यलोकान् ,
तं सूरीशं सकलहितदं हेमचन्द्रं भजेऽहम् ॥७॥ वन्द्यैर्वन्धः प्रचुरदयया वासितान्तःस्वभावो,
योऽनन्तानामतिशयजुषा संपदा मुख्यभूमिः । प्राविश्वके जनमुखकृते सिद्धिमूलश्च सौख्यं, तं पूरीन्द्रं मननविषयं हेमचन्द्र प्रकुत्रे ॥८॥
For Private And Personal Use Only