________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वागमार्थविदखण्डितबोधगेहं,
विद्यापुरस्थजनमङ्गलहेतुराद्यः। प्रधाऽमरेन्द्रपुरवासमनुप्रपन्ना,
शून्यं विभाति जगदिष्टगुरो ! समस्तम् ॥३॥ श्रीमरिपुङ्गव ! विमो ! जनसंशयानां,
छेत्ताऽधुना न सुलभः समतानिधानः ॥ कं ज्ञानिनं समधिगम्य मनोऽभिलाषं,
पूर्णीकरिष्यति वचःसुधया जनोऽयम् ॥ ४॥ विद्यावतां व्रतजुषां स्पृहणीयशीला,
शीलाङ्गमारवहनेऽतिधुरन्धरधीः । अध्यात्ममण्डलविभावक आत्मनिष्ठः,
सूरीशबुद्धिजलधिः स्वदशां प्रयातः ॥५॥ आनन्दमूर्तिरखिलागमसारवेदी,
विज्ञातदर्शनमतो मतभेदभिन्नः। संप्राप्तपण्डितपदः कविराजराजः,
सूरीशवुद्धिजलधिःस्वगति प्रपन्नः ॥६॥ श्रीवीरशासनमिदं रुचिरं विभाति,
यद्वाग्विलासविभवेन सुविस्तृतेन । यत्पादपङ्कजरतिः शुभदा नराणां,
सूरीशबुद्धिजलधिः स्वगति प्रयातः ॥७॥
For Private And Personal Use Only