________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६२) देवं सर्ग प्रपभस्तदखिलजनताऽभाग्यमेवाधुनाऽसौ । बुद्धयन्धि सूरिवर्य स्मरत भुविजनाः ! सद्गुरूं
दीव्यरूपम् ॥८॥
। गुरुविरहाष्टकम् ।
। ललितच्छन्दः। भवभयात्तिह ते पदाम्बुजं, भुवि सुदुर्लभं सूरिपुङ्गव । । गुरुकृपानिधे ! बुद्धिवारिधे !, वितर दर्शनं कामदं वरम् ॥१॥ स्मरणमुत्कटं ते मुनीश्वर !, प्रवरशर्मदं भक्तवल्लभ ।। वरद ! विश्वतस्तारकोत्तम !, वितर दर्शनं कामदं वरम् ॥२॥ कलिमलापहं भद्रकीर्तनं, तव विभो ! क्षितौ क्षीणकर्मणः ।। श्रुतमहोदधेस्तत्ववेदक!, वितर दर्शनं बुद्धिवारिधे ! ॥३॥ तब विभूतयः सर्वतः स्थिता-मतिमतां मनःसमनि प्रभो। कलयितुं न कोऽप्यस्ति ताः क्षमो-वितर दर्शनं बुद्धिवारिधे ।।४। तव समाधिना नाथ ! केवलं, शयनमङ्गिनो दुर्भगाः खलु ॥ विधिवशादिदं जातमक्षम, वितर दर्शनं बुद्धिवारिधे ॥५॥ विशदभूतिमात्रौकिको गण-स्तव गुरो! वचःसंपदा सदा ॥ तदपि ताव दर्शनं वरं, नहि जनः प्रभो ! विस्मरत्यहो॥३॥
For Private And Personal Use Only