________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५३) कृपालुना प्रकाशिताऽधुना यकेन सत्यता,
मनोविनोदमद्भुतं बिभत्तु वीरनायके ॥५॥ कलाविहारके महाप्रचण्डपश्चमारके,
विपत्तिमुक्तिमिच्छतामदीर्घजन्मिनां विभो ! । प्रकृष्टपुण्यसंञ्चयेन दर्शनं तवेष्टदं,
मनोविनोदमद्धतं विमर्नु वीरनायके तदेतदद्भुतं विभो ! नवीनमित्तिमाजनं,
गृहीतमाश्रयात्मकं त्वया नृणां महालघु । सुविस्मयं दृढं चिकीर्षितुं कलानिधे ! मम,
मनोविनोदमद्भुतं बिभर्तु वीरनायके ॥७॥ परम्पराश्रुतेन कुष्टमानसा महाजनाः,
स्वकीयसन्ततिव्रजेन सार्द्धमाशुदर्शनम् । प्रभो ! त्वदीयकं सुचिन्तयन्त आव्रजन्ति मे,
मनोविनोदमद्भुतं बिभर्तु वीरनायके ॥८॥ इदं तु दुष्कर्मकष्टनाशकं महाष्टकं,
गुणाऽप्रमेयकीर्तिजातकस्य शस्यतेजसः । प्रवीरतीर्थनायकस्य ये नरा गृणन्ति ते,
भुवि न वै विलोकयन्ति दुर्गति कदाप्यहो! ॥९॥
-
For Private And Personal Use Only