________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३८ ) ॥ अथ चतुर्विंशतिजिनस्तोत्रं समारभ्यते॥ जयत्वादीश्वरो नाथो-जयतादजितः प्रभुः।
श्रीसंभवस्तृतीयश्च, मोक्षस्वाम्यभिनंदनः ॥१॥ सुमतिः शिवदःपया, सुपार्श्वमणिरीश्वरः ।
चन्द्रप्रमः सुविख्याता, पुष्पदन्तश्च शीतलः ॥२॥ श्रेयांसः कर्मसंहारी, वासुपूज्यश्च पापहा ।
श्रीविमलो जगत्त्राता-ऽनन्तो धर्मों जयप्रदः ॥३॥ शान्तिनाथः प्रभुः कुन्थु-ररमल्लिजिनेश्वरौ ।
सुखदौ मुक्तिदाता च, मुनीन्द्रो मुनिसुव्रतः ॥४॥ नमीश्वरो विकर्मा चाऽ-रिष्टनेमिः कृपाऽऽलयः ।
श्री पार्थः पार्थतुल्यश्च, वर्द्धमानजिनेश्वरः ॥५॥ चतुर्विशतिरेषेव, जिनानां करुणानिधिः।
प्रणम्यते सदा सद्भिः, केवळज्ञानधारिणी ॥ ६ ॥ पादितीर्थङ्करैः प्रोक्तः, स्वयमेवाऽऽहंतो वृषः ।
नरोत्तमैः सदा ध्यान-मानसैः शुद्धवृत्तिभिः ॥७॥ यत्र तीर्थकरा यान्ति, तत्र पाखण्डिनां क्षयः।
गन्धहस्तिसमा लोके, जनानामुपकारकाः ॥८॥ भव्यहत्पङ्कजोद्योत-मानवोऽसचमोहराः । निर्भयदानदातारो-धर्मान्धलोचनप्रदाः
For Private And Personal Use Only