________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२९)
सुतातमातृकाः सौम्य-भ्रातृकाः सुखशीलिनः । सुजन्मानः सुवक्तारः, कुर्वन्तु सुखसन्ततिम् ॥२॥ विशाल भालसन्तानाः, सहस्राष्टकलाञ्छनाः। दयालवः सुकेशाश्च, कुर्वन्तु सुखसन्ततिम् अखण्डाऽदण्डिनोऽनङ्का-प्रचण्डामण्डनालयाः । असङ्गा गुणवन्तश्च, कुर्वन्तु सुखसन्ततिम् । ॥४॥ महावीरा गभीराभाः, सुस्थिरध्यानधारिणः। रुचिरा अचिरक्षोभ्याः, कुर्वन्तु सुखसन्ततिम् ॥५॥ अक्रोधा विश्वभर्तारः, कर्मवैरिदलच्छिदः। अखिना भेदसंभिन्नाः, कुर्वन्तु सुखसन्ततिम् ॥६॥ तीर्थसंस्थापने दक्षाः, पापसन्तानभेदकाः। व्याप्तप्रतापसौन्दर्याः, कुर्वन्तु सुखसन्ततिम्
॥७॥ अस्नेहाः स्नेहसंपूर्णा-निर्गेहा: सुदृढाऽऽलयाः । अदेहाः सुशरीराश्च, कुर्वन्तु सुखसन्ततिम् ॥८॥ अकर्माणोऽभ्रमाऽगर्वा-अमाया मानवर्जिताः। अभोगशोकरोगाश्च, कुर्वन्तु सुखसन्ततिम् ॥६॥ सुज्ञानाराधका नित्यं, विहरन्तो हिताय गाम् ।। सुरासुरेन्द्रसंसेव्याः, कुर्वन्तु सुखसन्ततिम् ॥१०॥ कीर्तयन्तः सुधाकन्पं, बोधं मिथ्यात्वबाधकम् । भक्तवाञ्छाः सुसन्तानाः, कुर्वन्तु सुखसन्ततिम् ॥ ११ ॥
For Private And Personal Use Only