________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११४ )
तथापि याति नो पारं, स्वल्पबुद्धिरहं कुतः । भवदीयगुणान्वक्तुं प्रभवाम्यस्थिराशयः ॥६७॥ युग्मम् । गुणराशिर्नृपाधीशः, प्राणिनां जीवनं भवान् । याचेऽहमेतदेवात्र, निजस्थानं प्रदर्शय
॥ ६८ ॥
निश्वयेन मया ज्ञातं शासनं भवता कृतम् । त्वदीयं शरणं भूयात्, सदैव सत्यभक्तितः ॥ ६६ ॥ यः पठेच्छृणुयादेतन्मङ्गलं पापनाशनम् । चत्वारि मङ्गलान्येव, वर्त्तन्ते तस्य सद्मनि ॥ १०० ॥ स्तोत्रमेतज्जनानन्दं, पवित्रं पापनाशनम् जयताद्रचितं लोकेऽ - जितसागरसूरिणा ॥ १०१ ॥
1
॥ अथ चतुर्विंशतिजिनस्तोत्रम् ॥
आदिनाथं जगन्नाथ - मजितं शान्तिसागरम् || भजन्तु प्राणिनः शर्म - वल्लीपुष्करवारिदम् ॥ १ ॥ श्रीसंभवं जगद्रक्षं, शिवदं हितकारकम् || नमामि परया भक्त्या, त्रातारमभिनन्दनम् ॥ २ ॥ सुमतिं रिपुहंतारं, शिवशर्मविधायकम् ॥ कायेन मनसा वाचा, वन्देऽहं परमाद्भुतम् पद्मप्रभुं सुपार्श्व च, श्रीचन्द्रं चन्द्रवद्गुणम् || सुविधं सुखदातारं, शीतलस्वामिनं भजे
॥ ३ ॥
॥ ४ ॥
For Private And Personal Use Only