________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०८ ) शुद्धक्रियासु निरतः, शोकहारी गतक्लमः ॥ एतत्प्रणामतो मारी-ग्रहपीडाऽऽशु शाम्यति ॥४४॥ ॐ नमो विश्वनाथाय, शिववल्लाघनाय च ।। यशस्विनेऽरिहन्त्रे च, दरितध्वान्तभानवे ॥४५॥ जितक्रोधाभिमानस्त्वं, कल्पवृक्ष इवाऽपरः ॥ चिन्तामणिरिवानन्त-सिद्धिदाने विशारदः ॥४६॥ केवलज्ञानसंपन्नः, शरण्यः संमृतेः परः । सुरासुरनरेन्द्रैश्च, सर्वदा सेवितक्रमः ॥४७॥ सरणेन तवेशान !, काणि यान्ति दूरतः॥ गरुडस्य यथा नादं, श्रुत्वा पनगराशयः ॥४८॥ प्रभूतवरविभूत्या भ्राजितोऽसि क्षमाब्धे ?,
तव शरणमिता येऽनन्यलक्ष्म्या वृतास्ते । विषमविषयचौराधिक्कृता हेलया ते,
शरणमशरणानां त्वं शिवश्रीनिदानम् ।। ४९ ॥ कोटिनार्यः सुताल्लोके, सुवते त्वादृशं न हि || नक्षत्राणि चतुर्दिक्षु, प्राच्यामेव दिवाकरः ॥५०॥ निर्मलानां गुणानां त्व-माधार! शान्तिसागरः ।। धर्मधूर्यो धर्मचक्री, जगदीशो जगद्गुरुः ॥ ११ ॥
For Private And Personal Use Only