________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०६) गुणवृद्धिश्च भावेन, शुद्धेन कीर्तिविस्तरः ।। शारदां सारदां वन्दे, सुमतिर्जायते यतः ॥२६ ॥ जयतु श्रेष्ठपददः, परमेष्ठी जनाश्रयः ॥ नमस्कारपदं सौख्य-दायकं जयतु क्षितौ ॥२७॥ गुणैादशभिर्याप्ता-अर्हन्तो लोकपूजिताः ॥ निष्कर्माणो गुणाकान्ता-स्त्यक्तमिथ्याभ्रमा वराः ॥२८॥ शुक्लध्यानरता जात-केवलज्ञानसंपदः ।।। समागतेन्द्रपर्षद्भिर्द्वादशभिर्विराजिताः ॥२९॥ वाचं सुधोपमा श्रुत्वा, नरा नार्यश्च भावतः ॥ केचित्संयमिनोऽन्ये च, द्वादशव्रतधारिणः ॥३०॥ कृतकर्मक्षया लोकाः, शिवसंपत्समन्विताः ॥
आदिमस्य पदस्यास्य, महिमा वागगोचरः ॥३१ ।। द्वितीयपदचिन्तायां, सिद्धानां गुणकीर्तनम् ॥ यसिन्गताः पुननँव, विद्यन्ते जन्मधारिणः ॥३२॥ भविनां रञ्जकाः सिद्धा-लक्ष्यातीता निरञ्जनाः ।। शिवशान्तास्त्यक्तकाया-निर्भयाः कर्मभञ्जनाः ॥३३॥ निर्विकारा जितक्रोधा-गुणाष्टकसमाश्रिताः ।। अनन्तसुखधामाना, केवलज्ञानधारिणः ॥३४॥ दर्शयन्तु निजावासं, सम्यक्त्वगुणदर्शिनः ।। भवादृशो न दातारो-दृश्यन्ते भुवनत्रये ॥३५॥
For Private And Personal Use Only