________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९३ ) माधं तीर्थाऽघिराज भुवनभवभृतां कर्ममर्माऽपहार, वन्दे शत्रुञ्जयाख्यचितिघरकमलाकण्ठशृङ्गारहारम् ॥ १॥ माद्यन्मोहद्विपन्द्रस्फुटकरटतटीपाटने पाटकं ये, विभ्राणाः शौर्यसारा रुचिरतररुचां भूषणायोचितानाम् । सद्वत्तानां शुमानां प्रकटनपटवो मौक्तिकानां फलानां, तेऽमी कण्ठीरवाऽऽभा जगति जिनवरा विश्ववन्द्या जयन्ति ॥र सबोधावन्ध्यबीजं सुगतिपथरथः श्रीसमा कृष्टिविद्या, रागद्वेषाऽहिमन्त्रः स्मरदवदवथुः प्रावृषेण्याऽम्बुबाहः। जीयाज्जैनाऽऽगमोऽयं निविडतमतमःस्तोमतिग्मांशुविम्बोद्वीपः संसारसिन्धौ त्रिभुवनभवने ज्ञेयवस्तुप्रदीपः ॥३॥ यः पूर्व तन्तुवायः कृतसुकृतलवै रितैः पूरितोऽपि, प्रत्याख्यानप्रभावादमरमृगदृशामातिथेयं प्रपेदे । सेवाहेवाकशाली प्रथमजिनपदाम्भोजयोस्तीर्थरचादक्षः श्रीयक्षराजः स भवतु भविनां विघ्नमर्दी कपर्दी॥४॥
(२) श्रीशान्तिनाथजिनस्तवनम्.
( गजल कव्वाली रागण गीयते ) सर्वार्थसिद्धिदायिन् ? करुणासुधाब्धिशायिन् ? सर्वार्थश्रीशान्तिनाथ ? शरणं, बजामि ते सुचरणम् । सकलाऽरतिप्रणाशिन् ? भवपाथसां विशोषिन् ? सर्वा-१
For Private And Personal Use Only