SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनाचार्य श्रीमद्-अजितसागरसूरिवृत्तान्तम् प्रणम्य पद्मप्रभपद्मनाथं, संक्षेपतोऽहं कथयामि किश्चित् । गुरुप्रसादाद् गुरुजीवनस्य, शुभं चरित्रं गुणवृद्धिहेतुम् ॥ १॥ विविधवैभवशालिनि चारुतर( चरोतर )देशे पेटलादपत्तनसन्निधौ प्रधानतो वैश्यजनमण्डितोऽन्वर्थनामा नार( नरसमूह)इत्यभिधानं दधानो ग्रामः प्रसिद्धः समस्ति । यस्मिन्वीत. रागधर्मोपासकाः कियन्तः स्वेष्टदेवता उपासते, यैधर्मसन्तानकराः कतिपयाऽर्भकाः सद्गुरुभ्यः समर्पिताः, दीक्षिताश्च ते धर्मोन्नति विदधति, एतस्मिंश्च प्रामे विशुद्धप्रकृतिः परमात्मिकधर्मनिष्ठो वैश्य (लेउआपाटीदार)कुलविभासकः (लल्लुभाई ) इत्याख्याख्यापकोऽभवत्, धर्मपत्नी च तस्य शीलवतीनां प्रशंसनीया( सोनबाई). नामाऽऽसीत् , दम्पती तौच समानशुभशीलौ विनीतस्वभावौ प्रभुभक्तिपरायणी शुद्धदेवगुरुभक्तिभाजावुहारमानसौ प्रेमाङ्कुरपोषको सततं बभूवतुः । यस्याः कुक्षौ शुभस्वप्नसूचितोऽयं गर्भवेन समपातरत । वि. सं. द्विचत्वारिंशदधिकैकोनविंशतितमे हायने पोषशुक्ल पञ्चभ्यां सा बालमजीजनत् , द्वादशेऽह्नि पित्रा ( अंबालाल ) इत्यभिधानमकारि । क्रमेण बालशशाङ्क इत्र स वृद्धिमगमत् , प्रकृत्यैवासौ निजपितृगुणानुसारी शुभलक्षण. सूचितो भविष्यद्भाग्योदयवशात् सामुद्रिकलक्षणैः कियद्भिरुपजक्षितोऽभूत् , पाद्यवयस्येव तं वाग्मित्वं बुद्धिवेशद्यञ्चाशिश्रियत् । For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy