________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८५) श्रीशान्तिनाथजिनस्तुतिः सकलकुशलवन्लीपुष्करावर्त्तमेघो
मदनसदृशरूपा पूर्णराकेन्दुवक्त्रः । प्रथयतु मृगलक्ष्मा शान्तिनाथो जनानां,
प्रसृतभुवनकीर्तिः कामितं कमेकान्तिः ॥१॥
जिनपतिसमुदायो दायकोऽभीप्सितानां,
दुरिततिमिरभानुः कल्पवृक्षोपमानः । रचयतु शिवशान्ति प्रातिहार्याश्रियं यो,-- विकटविषमभूमीजातदत्तिं बिभर्ति ॥२॥
प्रथयतु भविकानां ज्ञानसंपत्समूह,
समय इह जगत्यामाप्तवक्त्रप्रसूतः । भवजलनिधिपोतः सर्वसम्पत्तिहेतुः,
प्रथितघनघटायां सर्प (सूर्य) कान्तप्रकारः॥३॥ जयविजयमनीषामंदिरं ब्रह्मशान्तिः
सुरगिरिसमधीरः पूजितो न्यक्षयः। हरति सकलविघ्नं यो जने चिन्त्यमाना,
स भवतु सततं वः श्रेयसे शान्तिनाथः ॥४॥
For Private And Personal Use Only