________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७६ ) चक्रे वाचकपुङ्गवोऽजितसुधासिन्धुस्तवं शान्तिदमेतत्सत्त्वहिताय दुर्गममहादुर्गस्थतीर्थेशितुः ॥ ३० ॥
श्रीपञ्चासरपार्श्वनाथस्तोत्रम् ॥ १२ ॥
( शार्दूलविक्रीडितवृत्तम् ) यद्भासा प्रविभाति तिग्मकिरणो-लासिप्रभाक्षामता,
तायिन्या जगतीतलं तलमिवा-ऽऽदीयकं कम्रया । प्राचीनोर्जितकर्मजातविविध-व्याध्यन्धकाराऽपहं, श्रीपञ्चासरपार्श्वनाथचरणा-ऽम्भोजद्वयं नौम्यहम् ॥१॥
धर्माऽऽरामकलाकलाधरनिभं भावाऽयवृन्दाऽदरं,
राकेशक्षतिदं सुदन्तसुषमोल्लासवदीयाऽऽननम् । लक्ष्यीकृत्य दिगन्तकीर्तिममला संयाति दीव्यप्रभं,
श्रीपञ्चासरपार्श्वनाथचरणा-ऽम्भोजद्वयं नौम्यहम् ॥ २॥ संसारोतिरन्तिमा गुणजुषा, यद् ध्यानतो जायते, दुष्टान्यष्ट लयं व्रजन्ति सुधियां, रौद्राणि कर्माणि च ।
संपत्तिः सुलभा नराऽमरगण-श्लाघ्या स्वना नृणां, श्रीपञ्चासरपार्श्वनाथचरणा-ऽम्भोजड्यं नौम्यहम् ॥३॥
For Private And Personal Use Only