________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६९ )
सोपानाssa - विलसति महा - चैत्यसंबन्धिनी या, तामाश्रित्या-ऽक्षयसुखगता जीवलोका (भव्यजीवा) भवन्ति । मूर्ति यस्य प्रवरविभया भ्राजमानां विलोक्य, श्रादशं तं वरझघडिया- भूषणं नौमि नित्यम् ॥ ३॥
मूर्ति यावत्तव विषहरां शुद्धधर्मानुरक्तानो वीक्षन्ते परजनकृपा- कांक्षिणो वीतमोहाः । पापच्यन्ते भयदभुवने तावदक्षीणपापा
श्रीशं तं वरझघडिया-भूषणं नौमि नित्यम् ॥ ४ ॥ मोक्षाssकांचा गतभवभया सिद्ध्यति त्वत्प्रणामा - हुःप्राप्योऽसौ परमभिभवा-दुष्टकर्मारिमूलाद् । सिद्धिः साध्या गुरुमुखतया सर्वथा मानवानामादीशं तं वरझघडिया-भूषणं नौमि नित्यम् ॥ ५ ॥ यस्याऽधीनं जगति विशदो- द्वारकं धर्मवर्त्म,
यस्याऽधीनं जगदभिमतं शर्म्मसन्तानमिद्धम् । यस्याधीनं कलिगुणगणो-द्भेदकं मुख्यतत्त्व
मादीशं तं वरझघडिया-भूषणं नौमि नित्यम् ॥ ६ ॥
पारावारे जननमरण - क्लेशवित्तं भवेऽस्मिन्,
खिद्यन्तस्त्व-चरणवनभू-नावमासाद्य सद्यः । तीरोत्तीर्णाः सुखमनुभवन्तो न खिन्नाः परत्र, . आदीशं तं वरझघडिया - भूषणं नौमि नित्यम् ॥ ७ ॥
For Private And Personal Use Only