________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५९ )
समानमान मित्रशत्रुसन्तति क्षपाकराचयाऽतिशीतिमाऽऽश्रितं श्रितान्तिकं चराचरैः । ans या तिपावनं नमज्जनाऽमराज्वनं, नमामि ते पदाम्बुजद्वयं मुदाऽन्तिमप्रभो ! || ३॥
नितान्त भावभासुरैः सुरैः खलोकलोकितं, सदाऽधरीकृताऽऽपदाबलीष्टलीलयाऽश्चितम् । शुभोन्नतिप्रकाशकं कदध्वभेदकारकं,
नमामि ते पदाम्बुजद्वयं मुदाऽन्ति मप्रभो ! ||४॥
स्खल ल्लघुप्रमाद मान्द्यहारकौषधं वरं,
विचारसारदानदायि तायि भाविचेतसाम् । विकारकार लोभमान मोहवारि तारकं,
नमामि ते पदाम्बुजद्वयं मुदाऽन्तिम प्रभो ! ॥ ५ ॥
तव क्रमाम्बुजोपमं न विद्यतेऽन्यदक्षयं, परःसहस्रविघ्नघातकारि तीर्थपावकम् । भवाऽटवीभ्रमोऽस्ति तद्विलोकि देहिनां न हि, नमामि ते पदाम्बुजद्वयं मुदाऽन्तिमप्रभो ! ॥ ६ ॥
कथञ्चिदेकभावतोऽपि दृष्टिगोचरीकृतं, त्वदीयपादपङ्कजं जनुर्जराभयापहम् । समुद्भवन्ति मङ्गलान्यलौकिकानि भूस्पृशां,
नमामि ते पदाम्बुजद्वयं मुदाऽन्तिमप्रभो ! ॥ ७ ॥
For Private And Personal Use Only