________________
Shri Mahavir Jain Aradhana Kendra
*********
www.kobatirth.org.
पचक्रवर्णं पूआ, पडिक्कमणं पोसहो परुवयारो । पंच पयारा जस्सउ न पयारो तस्स संसारो ॥ ८ ॥ सूक्त. प्र. अप्पा चैव दमेयन्बो, अप्पा हु खलु दुहमो । अप्पा दन्तो सुही होइ, अस्सि लोए परत्थे य ।। ९ ।।
वरं मे अप्पा दन्तो, संजमेण तवेण य । माहं परेहिं दम्मन्तो बन्धणेहिं वहेहि य ॥ १० ॥ उ. प्र. श्लो. १५-१६ अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ११ ॥
मज्जं विसय कसाया निद्दा विकहा य पंचमी भणिया। एए पंच पमाया जीवं पाडन्ति संसारे ॥ १२ ॥ मिथ्यात्वाविरतिप्रमादकषाययोगान् आत्मन् सदा संछृणु सौरव्यमिच्छन् ।
असंवृता यद् भवतापमेपते सुसंवृता मुक्तिरमां च दद्युः ॥ १३ ॥
अकर्तव्यं न कर्तव्यं, प्राणैः कष्ठगतैरपि । सुकर्तव्यं तु कर्तव्यं, प्राणैः कण्ठगतैरपि ॥ १४ ॥
Acharya Shn Kailassagarsuri Gyanmandir
राजदण्डभयात्पापं, नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ १५ ॥
यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नाचरन्ति । आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ १६ ॥ धर्मस्य फलमिच्छति, धर्म नेच्छन्ति मानवाः । फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति सादराः ॥ १७ ॥ स्वर्गच्युतानामिह जीवलोके, चत्वारि नित्यं हृदये वसन्ति । दानप्रसङ्गो विमला च वाणी, देवार्चनं सद्गुरुसेवनं च।। १८ ।। पृ. ११
९८ बुद्धिः
अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् । आरब्धस्यान्तगमनं, द्वितीयं बुद्धिलक्षणम् ॥१ ॥ पं. पृ.९७ श्लो. ११४
For Private And Personal Use Only