________________
Shit Mahavir Jain Aradhana Kendra
www.kobatirth.org
९३ मृत्युः
अनुचितकार्षारम्भः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमादजनविश्वासो मृत्युद्वाराणि चत्वारि ॥१॥ हि. सु. श्लो. १५१ श्वः कार्यमद्य कुर्वीत पूर्वाद्धे चापराह्निकम् । न हि मृत्युः प्रतीक्षेत : कृतं चास्य न वा कृतम् ॥२॥ श्रा. पृ. ९९ श्लो. २ सञ्चिततपोधनानां नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥३॥ उमास्वातिवाचक धीरेण कातरेणापि, मर्तव्यं खलु देहिना । तन्त्रियेत तथा धीमान्, न म्रियते यथा पुनः ॥ ४ ॥ त्रि. प. १० स. १ श्लो. २५५ जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे, का तत्र परिदेवना ।। ५॥
यत्र वेश्मनि नो कोऽपि, मृतः पूर्वं ततोऽधुना । भृशमानीयतां रक्षा, जीवयामो यथा तया ॥६॥ सु. पृ. १५-१६ मङ्गलैः कौतुकैर्योगे विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात्त्रातुं, सेन्द्रा देवगणा अपि ॥७॥ स. पू. १७ नो विद्या न च भैषजं न च पिता नो बान्धवा नो सुताः, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता । नार्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं, नो शक्राः सततं सुरासुरवराः सन्धातुमायुः क्षमाः ॥ ८ ॥ मृत्योर्विभेषि किं बाल ! स जातं नैव मुञ्चति । अजातं नैव गृहणाति, कुरु यत्नमजन्मनि ॥ ९ ॥ करिष्यामि करिष्यामि करिष्यामीति श्चिन्तनात् । मरिष्यामि मरिष्यामि मरिष्यामीति विस्मृतम् ॥१०॥ सु. २३५-२३७ जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुवखेण संतत्तो, न सरह पुव्वजाइयं ॥ ११ ॥ नित्यमित्रसमं देहं स्वजनाः पर्वसन्निभाः, नमस्कारसमो ज्ञेयो, धर्मः परमबान्धवः
१२ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir