________________
Shanna Kendre
www.kobatirth.org
Acharya Sun Kailasagersuri Gyanmandi
शीलम्
जैन सूक्त ॥३०॥
第密密卷带带带卷帶路帶路密密密带带带带带带带
निर्जराकरणे बाह्यच्छेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं, ध्यानस्य मुनयो जगुः ॥९॥ यस्माद्विधपरम्परा विघटते दास्य सुराः कुर्वते, कामः साम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणां, स्वाधीन त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन किम् ? ॥१०॥
सिंदुरप्रकरण, श्लोक ८२ जिनेन्द्रचन्द्रोदितमस्तदूषण, कषायमुक्तं विदधाति यस्तपः।। न दुर्लभ तस्य समस्तविष्टपे, प्रजायते वस्तु मनोज्ञमीप्सितम् ॥ ११ ॥ सुभाषितरत्नसन्दोह श्लोक ८९९ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः। तैरेव फलमङ्गस्य. जगृहे तत्ववेदिभिः ॥ १२ ॥ श्रीमद्वीरजिनो उदाहरणः स्वीयप्रतिज्ञारदः, श्लाघ्यो बाहुबली बलोऽप्यविचलः समन्दिषेणवती। आनन्दः सदुपासको व्रतरुचिः सा सुन्दरीत्यादयः, कर्मोन्मूलनकोविदेन तपसा देवासुरैर्वन्दिताः॥१३॥ पूजालाभप्रसिद्धयर्थ, तपस्तप्येत योऽल्पधीः । शोष एव शरीरस्य, न तस्य तपसः फलम् ॥ १४ ॥ सूक्त. पू. ८० ज्ञानमेव बुधाः प्राहुः कर्मणां तापनात्तपः । तदाभ्यन्तरमेवेष्टं बाह्यं तदुपष्टंहकम् ॥१५॥ यत्र ब्रह्म जिनार्चा चकषायाणां तथा हृतिः। सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिप्यते ॥ १६ ॥ तदेव हि तपः कार्य दुर्व्यानं यत्र नो भवेत् । येन योगा न हीयन्ते क्षीयन्ते नेन्द्रियाणि वा ॥ १७॥ चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं मांगल्यमिष्टार्थकत्, देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः॥ १८॥ सु. श्लो. ११६
For Private And Personal use only
第密密密密密密的密密密密举路路路路路路路帶際路带等
॥३०॥