SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ShiMahayeJainrachanaKendra Acham Ka mandi 聯號幾號幾號漆器等等幾號幾號號染器端端藤藤藤蒂蒂芬 निर्जरापि द्वादशधा, तपोमेदैस्तथोदिता । कमनिर्जरणात्मा तु, सैकरुपैव वस्तुतः ॥३॥ निकाचितानामपि कर्मणां यद् , गरीयसां भूधरदुर्धराणाम् । विमेदने वज्रमिवातितीव्रम् , नमोऽस्तु तस्मै तपसेद्भुताय ॥४॥ किमुच्यते सत्तपसः प्रभावः, कठोरकर्मार्जितकिल्बिषोऽपि । दृढ प्रहारीव निहत्य पापम्, यतोऽपवगै लभतेऽचिरेण ॥५॥ यथा सुवर्णस्य शुचिस्वरूपम् , दीप्तः कृशानुः प्रकटीकरोति । तथात्मनः कर्मरजो निहत्य, ज्योतिस्तपस्तद्विशदीकरोति ॥६॥ बाह्येनाभ्यन्तरेण प्रथितबहुभिदा जीयते येन शत्रु-श्रेणी बाह्यान्तरङ्गा भरतनृपतिवद्भावलब्धद्रविना । यस्मात्प्रादुर्भवेयुः प्रकटितविभवा लब्धयः सिद्धयश्च, वन्दे स्वर्गापवर्गार्पणपटुसततं तत्तपो विश्ववन्धम् ।।७।। शा.न.प्र. ५५ लोकस्वरूपभावना सप्ताधोऽधो विस्तृता याः पृथिव्यश्छत्राकाराः सन्ति रत्नप्रभाद्याः, ताभिः पूर्णों योऽस्त्यधोलोक एतौ पादौ यस्य व्यायतौ सप्तरज्जू ॥१॥ तिर्यग्लोको विस्तृतो रज्जुमेकाम्, पूर्णों द्वीपैरणवान्तरसङ्ख्यैः । यस्य ज्योतिश्चक्रकाञ्चीकलापम् , मध्ये कार्य श्रीविचित्र कटित्रम् ॥ २ ॥ लोकोऽथोचे ब्रह्मलोके धुलोके, यस्य व्याप्तौ कूपरौ पञ्चरज्जू ।। लोकस्याऽन्तो विस्तृतो रज्जुमेकां, सिद्धज्योतिश्चित्रको यस्य मौलिः ॥३॥ यो वैशास्वस्थानकस्थायिपादः, श्रोणीदेशे न्यस्तहस्तद्वयश्च । 张继器带游離港柴柴继继際拳聯张晓晓端端带筛燒增 For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy