________________
ShriMahavirain ApartmenaKendra
Achan Ka Beramendi
संसार
जैन सूक्त ॥२३॥
聯寨亲亲亲亲亲亲亲张张蒂器带带带张亲亲亲亲亲語蒂熟魏
अस्मिन् महामोहमये कटाहे सूर्याभिना रात्रिदिवेन्धनेन । मासर्तुदर्वी परिघट्टनेन भूतानि कालः पचतीति वार्ता ॥५॥
४८ संसार भावना इतो लोभः क्षोभं जनयति दुरन्तो दव इवो-ल्लसल्लाभाम्भोधिः कथमपि न शवयः शमयितुम ॥ इतस्तृष्णाक्षाणां तुदति मृगतृष्णेव विफला, कथं स्वस्थैः स्थेय विविधभयभीमे भववने ॥१॥ गलत्येका चिन्ता भवतिं पुनरन्या तदधिका, मनोवाक्काये हा विकृतिरतिरोषान्तरजसः ।। विपद्गविर्ते झटिति पतयालोः प्रतिपदं, न जन्तोः संसारे भवति कथमप्यतिविरतिः॥२॥ सहित्वा सन्तापानशुचिजननीकुक्षिकुहरे, ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः सुखाभासैर्थावत् स्पृशति कथमप्यतिविरति, जरा तावत्काय कवलयति मृत्योः सहचरी ॥३॥ विभ्रान्तचित्तो बत बम्भ्रमीति, पक्षीव रुद्धस्तनुपअरेऽङ्गी। नुनो नियत्याऽतनुकर्मतन्तु-सन्दानितः सन्निहितान्तकौतुः॥४॥ अनन्तान्पुद्गलावर्तानन्तानन्तरुपभृत् । अनन्तशो भ्रमत्येव जीवोनादिभवार्णवे ॥५॥ शा० त० प्रकाशात यः पिता स भवेत्पुत्रो यः पुत्रः स भवेत् पिता। या कान्ता सा भवेन्माता, या माता साऽपि सा भवेत् ॥६॥ वृद्धस्य मृतभार्यस्य, पुत्राधीलधनस्य च । स्नुषावाक्येन दग्धस्य जीवितान्मरणं वरम् ।। ७ ॥ भ्राताऽसि तनुजन्माऽसि, वरस्थावरजोऽसि च । भ्रातृव्योऽसि पितृव्योऽसि, पुत्रपुत्रोऽसि चार्भक!॥८॥ यश्च बालक ! ते पिता स मे भवति सोदरः। पिता पितामहो, भर्ता तनयः श्वसुरोऽपि च ॥९॥
华张萨蒂蒂蒂鄂泰泰泰泰泰泰潔器部张華第蒂蒂蒂
For Private And Personal Use Only